This page has been fully proofread once and needs a second look.

<page>
<ignore>
.०६
 
</ignore>
<ignore>
माणिकर्णिकाष्टकम् ।
 
-
</ignore>
<verse>
मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः

स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।

योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगत
 
स्त्वन्
-
स्त्व
त्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८ ॥
 
</verse>
<verse>
कृच्छैः :छ्रैः कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं

तत्सर्वं मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् ।

स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं

तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
 
'

श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
 

मणिकर्णिकाष्टकं संपूर्णम् ॥
 
</trailer>
</page>