2026-02-28 06:50:46 by ambuda-bot
This page has not been fully proofread.
१.०६
माणिकर्णिकाष्टकम् ।
- मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः
स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।
योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगत
स्त्वन्त्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८ ॥
कृच्छैः : कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं
तत्सर्वं मणिकर्णिकानपनजे पुण्ये प्रविष्टं भवेत् ।
स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं
तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
'श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
मणिकर्णिकाष्टकं संपूर्णम् ॥