This page has not been fully proofread.

मणिकर्णिकाष्टकम् ।
 
१०५.
 
गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा
 
तस्यां सा मणिकर्णिकोत्तमतमा यत्रेश्वरो मुक्तिदः ।
देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं
पूर्वोपार्जितपुण्यपुखगमकं पुण्यैर्जनैः प्राप्यते ॥ ४ ॥
 
दुःखाम्भोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृति:
ज्ञात्वा तद्धि विरिञ्चिना विरचिता वाराणसी शर्मदा ।
लोका:स्वर्गसुखास्ततोऽपि लघवो भोगान्तपातप्रदाः
काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ ५ ॥
 
एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः
योऽप्येकः किल शंकरो विषधरो गङ्गाधरो माधवः ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवा:
रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥ ६ ॥
 
त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाघ्यते
 
शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः ।
आयान्तं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा
पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥