This page has not been fully proofread.

॥ श्रीः ॥
 
॥ मणिकर्णिकाष्टकम् ॥
 
त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ
वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे ।
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणा-
त्तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥
 
इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन-
जयन्ते मनुजास्ततोपि पशवः कीटाः पतङ्गादयः ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषा:
सायुज्येऽपि किरीट कौस्तुभधरा नारायणाः स्युर्नराः ॥
 
काशी धन्यतमा विमुक्तनगरी सालंकृता गङ्गया
तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।
स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा
काशी क्षोणितले स्थिता गुरुतरा स्वर्गे लघुत्वं गतः ॥