This page has been fully proofread once and needs a second look.

<page>
<ignore>
गङ्गाष्टकम् ।
 
</ignore>
<ignore>
१०३
 
</ignore>
<verse>
मातर्जाह्वि शंभुसङ्गमिलिते मौलौ निधायाञ्जलिं

त्वन्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वियम् ।

सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे

भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ८ ॥
 
</verse>
<verse>
गङ्गाष्टकमिदं पुण्यं
 

यः पठेत्प्रयतो नरः ।
 

सर्वपापविनिर्मुक्तो
 

विष्णुलोकं स गच्छति ॥ ९ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

गङ्गाष्टकं संपूर्णम् ॥
 
</trailer>
</page>