This page has not been fully proofread.

गङ्गाष्टकम् ।
 
१०३
 
मातर्जाह्रवि शंभुसङ्गमिलिते मौलौ निधायाञ्जलिं
त्वन्तीरे वपुषोऽवसानसमये नारायणाद्वियम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ८ ॥
 
गङ्गाष्टकमिदं पुण्यं
 
यः पठेत्प्रयतो नरः ।
 
सर्वपापविनिर्मुक्तो
 
विष्णुलोकं स गच्छति ॥ ९ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
गङ्गाष्टकं संपूर्णम् ॥