This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०२
 
</ignore>
<ignore>
गङ्गाष्टकम् ।
 
</ignore>
<verse>
आदावादिपितामहस्य नियमव्यापारपावेत्रे जलं

पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।

भूयः शंभुजटाविभूषणमणिर्जहोह्नोर्महर्षेरियं
 

कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥
 
</verse>
<verse>
शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी..
 

पारावारविहारिणी भवभय श्रेणीसमुत्सारिणी ।

शेषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी

काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥५॥
 
</verse>
<verse>
कुतो वीची वीचिस्तव यदि गता लोचनपथं

त्वमापीता पीताम्बरपुर निवासं वित्तरसि ।

त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां
 

तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः ॥ ६ ॥
 
</verse>
<verse>
भगवति तव तीरे नीरमात्राशनोऽहं
 

विगतविषयतृष्णः कृष्णमाराधयामि ।
 

सकलकलुषभङ्गे स्वर्गसोपानस
 
ङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥
 

 
</verse>
</page>