2026-02-28 06:50:45 by ambuda-bot
This page has not been fully proofread.
१०२
गङ्गाष्टकम् ।
आदावादिपितामहस्य नियमव्यापारपावे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शंभुजटाविभूषणमणिर्जहोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥
शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी..
पारावारविहारिणी भवभय श्रेणीसमुत्सारिणी ।
शेषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥५॥
कुतो वीची वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुर निवासं वित्तरसि ।
त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां
तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः ॥। ६ ॥
भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानस
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥
॥