This page has not been fully proofread.

॥ श्रीः ॥
 
॥ यमुनाष्टकम् ॥
 
कृपापारावारां तपनतनयां तापशमनी
मुरारिप्रेयस्यां भवभयदवां भक्तिवरदाम् ।
वियज्ज्वालोन्मुक्तां श्रियमपि सुखाप्तेः परिदिनं
 
सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥ १ ॥
 
मधुवनचारिणि भास्करवाहिनि जाह्रविसङ्गिनि सिन्धुसुते
मधुरिपुभूषणि माधवतोषिणि गोकुल भीतिविनाशकृते ।
जगदघमोचिनि मानसदायिनि केशव केलिनिदानगते
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥
 
1.
 
अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे
परिजनपालिनि दुष्टनिषूदिनि वाञ्छित कामविलासधरे ।
व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके
 
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥