2026-02-28 19:07:19 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>९४
</ignore>
<ignore>नर्मदाष्टकम् ।
</ignore>
<verse>अहो धृतं स्वनं श्रुतं महेशिकेशजातटे
किरातसूतबाडबेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारि सर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८ ॥
</verse>
<verse>इदं तु नर्मदाष्ठकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यन्ति दुर्गतिं कदा ।
सुलभ्यदेहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥
</verse>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नर्मदाष्टकं संपूर्णम् ॥
</trailer>
</page>