2026-02-28 18:50:29 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>दक्षिणामूर्तिस्तोत्रम् ।
</ignore>
<verse>उपासते यं मुनयः शुकाद्या
निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेश-
मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥
</verse>
<verse>कान्त्या निन्दितकुन्दकंदलवपुर्न्यग्रोधमूले वस-
न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
८७
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
</verse>
<verse>अगौरनेत्रैरललाटनेत्रै-
रशान्तवेषैरभुजंगभूषैः ।
अबोधमुद्रैरनपास्तनिद्रै-
रपूरकामैरमरैरलं नः ॥ १४
॥</verse>
<verse>दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनुप्ग्रहे
दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥
</verse>
</page>
<ignore>दक्षिणामूर्तिस्तोत्रम् ।
<verse>उपासते यं मुनयः शुकाद्या
निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेश-
मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥
<verse>कान्त्या निन्दितकुन्दकंदलवपुर्न्यग्रोधमूले वस-
न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
८७
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
<verse>अगौरनेत्रैरललाटनेत्रै-
रशान्तवेषैरभुजंगभूषैः ।
अबोधमुद्रैरनपास्तनिद्रै-
रपूरकामैरमरैरलं नः ॥ १४
<verse>दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनु
दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥
</page>