2026-02-28 18:48:46 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>८६
</ignore>
<ignore>दक्षिणामूर्तिस्तोत्रम् ।
</ignore>
<verse>तत्वार्थमन्तेवसतामृषीणां
युवापि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तन पुण्यजालै-
राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥
</verse>
<verse>एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्ता-
दाचार्यचूडामणिराविरस्तु ॥ ९ ॥
</verse>
<verse>आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कंचन देशिकेन्द्र-
मज्ञानवाराकरबाडबाग्निम् ॥ १० ॥
</verse>
<verse>चारुस्थितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्व-
मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥
</verse>
</page>
<ignore>८६
<ignore>दक्षिणामूर्तिस्तोत्रम् ।
<verse>तत्वार्थमन्तेवसतामृषीणां
युवापि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तन
राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥
<verse>एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्ता-
दाचार्यचूडामणिराविरस्तु ॥ ९ ॥
<verse>आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कंचन देशिकेन्द्र-
मज्ञानवाराकरबाडबाग्निम् ॥ १० ॥
<verse>चारुस्थितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्व-
मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥
</page>