2026-02-28 18:46:14 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<subtitle>॥ श्रीः ॥
</subtitle>
<title>॥ दक्षिणामूर्तिस्तोत्रम् ।
883
</title>
<verse>उपासकानां यदुपासनीय-
मुपात्तवासं वटशास्त्रिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्य
या
जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥
</verse>
<verse>अद्राक्षमक्षीणदयानिधान-
माचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन
महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥
</verse>
<verse>विद्राविताशेषतमोगणेन
मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥
</verse>
</page>
<subtitle>॥ श्रीः ॥
<title>॥ दक्षिणामूर्तिस्तोत्रम् ।
883
<verse>उपासकानां यदुपासनीय-
मुपात्तवासं वटशास्त्रिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्
जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥
<verse>अद्राक्षमक्षीणदयानिधान-
माचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन
महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥
<verse>विद्राविताशेषतमोगणेन
मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥
</page>