This page has not been fully proofread.

८२
 
मीनाक्षीस्तोत्रम् ।
 
ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते
 
पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाश्चिते ।
बाले बालकुरङ्गलोलनयने बालार्ककोटयुज्ज्वले
मुद्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ४ ॥
 
गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते
गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते !
खातीते खलदारुपावकशिखे खद्योत कोटयुज्ज्वले
मन्त्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ५ ॥
 
नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके
 
नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।
कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते
 
मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥
 
वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे
 
ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते ।
 
श्यामे चन्द्रकलावतंसकलिते कस्तूरिका फालिके
पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७ ।