2026-02-28 06:50:42 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ मीनाक्षीस्तोत्रम् ॥
श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।
श्रीवाणीगिरिजानुता किमले श्रीशांभवि श्रीशिवे
मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥१॥
चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
मात: पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥
कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाश्चिते
कोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराध्विते ।
शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालंकृते
मद्दारिद्र्यभुजंगगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥
S. S. II. 6.