This page has been fully proofread once and needs a second look.

<page>
<ignore>
८०
 
</ignore>
<ignore>
मीनाक्षीपश्ञ्चरत्नम् ।
 
</ignore>
<verse>
श्रीमत्सुन्दरनायकीं भयहांहरां ज्ञानप्रदां निर्मलां

श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।

वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां
 

मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
 
</verse>
<verse>
नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां

नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।

नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां

मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

॥ मीनाक्षी पञ्चरत्नं संपूर्णम् ॥
 
</trailer>
</page>