2026-02-28 06:50:41 by ambuda-bot
This page has not been fully proofread.
॥ >ft: ॥
॥ मीनाक्षीपञ्चरत्नम् ॥
883.
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
विम्बोष्ठीं स्मितदन्तपतिरुचिरां पीताम्बरालंकृताम् ।
विष्णुब्रह्मसुरेन्द्र सेवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्रप्रभां
शिञ्जन्नूपुर किंकिणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां

श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां
श्रीचक्राङ्कित बिन्दुमध्यवसतिं श्रीमत्सभानायकीम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं