2026-03-02 05:22:38 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>७८
</ignore>
<ignore>शिवापराधक्षमापणस्तोत्रम् ।
</ignore>
<verse>आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना ॥
</verse>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्री गोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवापराधक्षमापणस्तोत्रं संपूर्णम् ॥
</trailer>
</page>

श्री गोविन्द
श्रीमच्छंकरभगवतः कृतौ
शिवापराधक्षमापणस्तोत्रं संपूर्णम् ॥
</page>