This page has not been fully proofread.

७८
 
शिवापराधक्षमापणस्तोत्रम् ।
 
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युचलं जीवितं
 
तस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्री गोविन्द भगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
शिवापराधक्षमापणस्तोत्रं संपूर्णम् ॥