2026-02-22 23:58:47 by akprasad
This page has been fully proofread once and needs a second look.
Go
<su
<title>॥ गणेशपञ्चरत्नम् ॥
<verse>मुदा करात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥
<verse>नतेतरातिभीकरं नवोदितार्कभास्वरं
'
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥
<verse>समस्तलोकशंकरं निरस्त
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
<ignore>S. S. 1
</page>