This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवापराधक्षमापणस्तोत्रम् !
 
</ignore>
<ignore>
७७
 
</ignore>
<verse>
हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं

सत्यं शान्तस्वरूपं सकलमुनिमनः पद्मषण्डैकवेद्यम् ।

जाग्रत्स्वप्रेने सुषुप्तौ त्रिगुणविरहितं शंकरं न स्मरामि

क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
</verse>
<verse>
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे
 

सर्पैर्भूषित कण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।

दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
 

मोक्षार्थं कुरु चित्त <error> </error>वृत्तिममलामन्यैस्तु किं कर्मभिः ॥
 
</verse>
<verse>
किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं

किं वा पुत्रकलत्रमित्र पशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः

स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १३
 
</verse>
<verse>
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
 

माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् ।
 

ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
 

मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु ॥ १४ ॥
 
</verse>
</page>