This page has not been fully proofread.

शिवापराधक्षमापणस्तोत्रम् !
 
७७
 
हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं
सत्यं शान्तस्वरूपं सकलमुनिमनः पद्मषण्डैकवेद्यम् ।
जाग्रत्स्वप्रे सुषुप्तौ त्रिगुणविरहितं शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे
 
सर्पैर्भूषित कण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
 
मोक्षार्थं कुरु चित्त वृत्तिममलामन्यैस्तु किं कर्मभिः ॥
 
किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्र पशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १३
 
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
 
माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् ।
 
ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
 
मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु ॥ १४ ॥