This page has been fully proofread once and needs a second look.

<page>
<ignore>
७६
 
</ignore>
<ignore>
शिवापराधक्षमापणस्तोत्रम् ।
 
</ignore>
<verse>
नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये

श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे ।

तत्वेऽज्ञाते विचारे श्रवणमननयो:योः किं निदिध्यासितव्यं

क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
</verse>
<verse>
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो

हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।

नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यं न जप्
तं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
</verse>
<verse>
मोग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो

नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।

उन्मन्यावस्थया त्वां विगतगतिमतिः शंकरं न स्मरामि

क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
</verse>
<verse>
स्थित्वा स्थाने सरोजे प्रणवमय मरुत्कुम्भिते सूक्ष्ममार्गे

शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये ।

लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि

क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
</verse>
</page>