This page has not been fully proofread.

शिवापराधक्षमापणस्तोत्रम् ।
 
७५
 
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसंधौ
दष्टो नष्टो विवेकः सुतधनयुवतिखादसौख्ये निषण्णः ।
शै चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
वार्धक्ये चेन्द्रियाणां विकलगतिमतश्चाधिदैवादितापैः
प्राप्तै रोगैर्वियोगैर्व्यसन कृशतनोईप्तिहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थ वा कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं वा ।
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
 
दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै:
 
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥