2026-02-22 23:58:29 by ambuda-bot
This page has not been fully proofread.
॥ eft: ॥
शिवापराध-
क्षमापणस्तोत्रम् ॥
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु-
न शक्तवेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति ।
नानारोगातिदुःखाद्रुदितपरवश: शंकरं न स्मरामि