This page has not been fully proofread.

७२
 
वेदसारशिवस्तोत्रम् ।
 
शिवाकान्त शंभो शशाङ्कार्धमौले
महेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
 
प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥
 
परात्मानमेकं जगद्बीजमाद्यं
 
निरीहं निराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्व
 
तमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥
 
न भूमिर्न चापो न वह्निर्न वायु-
 
र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
 
न यस्यास्ति मूर्तिस्त्रिमूर्ति तमीडे ॥ ६ ॥
 
अजं शाश्वतं कारणं कारणानां
 
शिवं केवलं भासकं भासकानाम् ।
 
तुरीयं तमःपारमाद्यन्तहीनं
 
प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥