This page has been fully proofread once and needs a second look.

<page>
<ignore>
७०
 
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
 
</ignore>
<verse>
सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते

स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः ।

लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां

भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥ २७ ॥
 
</verse>
<verse>
येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तितिं प्रसादा-.

द्ये वा
नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः ।

श्रीकण्ठस्यारुणोद्यच्चरणसरसिज प्रोत्थितास्ते <error>भा</error><fix>भ</fix>वाख्या-

त्पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥
 
</verse>
<verse>
भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां

साम्नामाम्नाय तत्वं यदपि च परमं यद्गुणातीतमाद्यम् ।

यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो

माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥ २९ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवकेशादिपादान्तवर्णनस्तोत्रम्

संपूर्णम् ॥
 
</trailer>
</page>