2026-02-22 23:58:28 by ambuda-bot
This page has not been fully proofread.
७०
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते
स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः ।
लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां
भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥ २७ ॥
येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्ति प्रसादा-.
वनम्रात्ममूर्तिदृषिपरिषन्मूर्ध्नि शेषायमाणाः ।
श्रीकण्ठस्यारुणोद्यच्चरणसरसिज प्रोत्थितास्ते भावाख्या-
त्पारावाराचिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥
भूना यस्यास्तसीना भुवनमनुसृतं यत्परं धाम धानां
सानामाम्नाय तत्वं यदपि च परमं यद्गुणातीतमाद्यम् ।
यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुचैर्महान्तो
माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥ २९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवकेशादिपादान्तवर्णनस्तोत्रम्
संपूर्णम् ॥