2026-03-05 03:22:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>शिवकेशादिपादान्त वर्णनस्तोत्रम् ।
६९</ignore>
<verse>मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः ।
बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥
</verse>
<verse>अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः ।
सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥
६९
</verse>
<verse>याः स्वस्यैकांशपातादतिबलहगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन्प्राङ् निजमचलवरं चालयन्तं दशास्यम् ।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्लल्यः ॥
</verse>
<verse>प्रह्वप्राचीनवबर्हिः प्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोत्स्रैरविरतममला भूरिनीराजिता या ।
प्रोदग्रामाग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः ॥
</verse>
</page>
<ignore>शिवकेशादिपादान्त वर्णनस्तोत्रम् ।
<verse>मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः ।
बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥
<verse>अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः ।
सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥
६९
<verse>याः स्वस्यैकांशपातादतिबलहगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन्प्राङ् निजमचलवरं चालयन्तं दशास्यम् ।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्
<verse>प्रह्वप्राचीन
ज्यायोरत्नोत्करो
प्रोदग्रा