This page has been fully proofread once and needs a second look.

<page>
<ignore>
६८
 
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
 
</ignore>
<verse>
मुक्तामुक्ते विचित्राकुलवलिलहरी जालशालिन्यवाञ्च-
 
I
 

न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले

युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्या:
याः
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥
 
</verse>
<verse>
वैयात्रीघ्नी यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः

सान्द्रावश्यायमिश्रा परित इव वृत्ता नीलजीमूतमाला ।

आबद्धाहीन्द्रकाञ्चीगुणमतिप्रपृथुलं शैलजाक्रीडभूमि-
स्तो

स्तद्वो
निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥
 
</verse>
<verse>
पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं वित्रिलोक्या:
याः
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तितिं दधानौ ।

सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ

भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥
 
</verse>
<verse>
आनन्दायेन्दुकान्तोपलरचितसमुद्रायिते ये मुनीनां

चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।

काञ्चीभोगीन्द्रमूर्ध्नानां प्रतिमुहुरुपधानायमाने क्षणं ते

कान्ते स्तामन्तकारेद्युतिविजितसुधाभानुनी जानुनी वः ॥
 
</verse>
</page>