This page has not been fully proofread.

६८
 
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
 
मुक्तामुक्ते विचित्राकुलवलिलहरी जालशालिन्यवाञ्च-
 
I
 
न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले
युष्मचित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्या:
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥
 
वैयात्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रा परित इव वृत्ता नीलजीमूतमाला ।
आबद्धाहीन्द्रकाञ्चीगुणमतिप्रथुलं शैलजाक्रीडभूमि-
स्तो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥
 
पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं विलोक्या:
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्ति दधानौ ।
सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥
 
आनन्दायेन्दुकान्तोपलरचितसमुद्रायिते ये मुनीनां
चित्तादर्श निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।
काञ्चीभोगीन्द्रमूर्ध्ना प्रतिमुहुरुपधानायमाने क्षणं ते
कान्ते स्तामन्तकारेद्युतिविजितसुधाभानुनी जानुनी वः ॥