This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
 
वक्
६७</ignore>
<verse>वक्त्
रेन्दोर्दन्तलक्ष्म्याश्चिरमधर महाकौस्तुभस्याप्युपान्ते
 
६७
 

सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम् ।

प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः

कालं कुर्वन्गलं वो हृदयमयमलं क्षालयेत्कालकूटः ॥
 
</verse>
<verse>
प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः

पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि ।

रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
हो

द्दो
र्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥
 
</verse>
<verse>
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः

क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः ।

तिर्यग्विष्कम्भभूतास्त्रिभुवनवसते र्भिन्न दैत्येभदेहा
 

बाहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु ॥
 
</verse>
<verse>
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो-
 

जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत् ।
 

क्षिप्रं तद्रूक्षचक्षुः श्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
 

युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥
 
</verse>
</page>