This page has not been fully proofread.

शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
 
वक्रेन्दोर्दन्तलक्ष्म्याश्चिरमधर महाकौस्तुभस्याप्युपान्ते
 
६७
 
सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम् ।
प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन्गलं वो हृदयमयमलं क्षालयेत्कालकूटः ॥
 
प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
होर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥
 
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः ।
तिर्यग्विष्कम्भभूतास्त्रिभुवनवसते भिन्न दैत्येभदेहा
 
बाहा वस्ता हर द्रुतमिह निवहानंहसां संहरन्तु ॥
 
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो-
 
जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत् ।
 
क्षिप्रं तद्रूक्षचक्षुः श्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
 
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥