This page has been fully proofread once and needs a second look.

<page>
<ignore>
६६
 
</ignore>
<ignore>
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
 
</ignore>
<verse>
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेघौघघोषं

स्फूर्जद्वार्व्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।

सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्या:
याः
प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ॥
 
</verse>
<verse>
भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त-

र्व्याममेग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
 

पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां

पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥
 
</verse>
<verse>
सद्योजाताख्यमाध्प्यं यदुविमलमुदग्वर्ति यद्वामदेवं

नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।

यद्वालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
 

यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥
 
</verse>
<verse>
आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मण्

मष्
या तिस्रः सुनीलाञ्जननिभगररेखा:खाः समाभान्ति यस्याम् ।

आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः

पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥
 
</verse>
</page>