2026-02-22 23:58:07 by ambuda-bot
This page has not been fully proofread.
६६
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेघौघघोषं
स्फूर्जद्वार्व्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।
सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्या:
प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ॥
भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त-
र्व्याममेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥
सद्योजाताख्यमाध्यं यदुविमलमुदग्वर्ति यद्वामदेवं
नाना ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।
यद्वालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥
आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मण्या तिस्रः सुनीलाञ्जननिभगररेखा: समाभान्ति यस्याम् ।
आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः
पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥