This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
 
६५</ignore>
<verse>
द्ट्वाङ्गोदप्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश-

प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः ।
 
६५
 

युष्माकं कवकाम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः

शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥
 
</verse>
<verse>
क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती

भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या ।

युष्मांस्तौ शश्वदुच्चैरबहुलदशमशिमीशर्वरीशातिशुभ्रा -
 

वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥
 
</verse>
<verse>
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ-

न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम् ।

प्रोद्यत्प्रेम्णा यमार्द्रा पिबति गिरिसुता संपदः सातिरेका

लोका:काः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥
 
</verse>
<verse>
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-

पीयूषाम्भः प्रवाहप्रसरपरि सत्फे बिन्द्वावलीव ।

देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य
 

द्यु
त्या दीप्तेन्दुकुन्दच्छविरमलतर प्रोन्नताम्रा मुदं वः ॥
 
</verse>
</page>