2026-02-22 23:58:07 by ambuda-bot
This page has not been fully proofread.
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
खद्वाङ्गोदप्रपाणेः स्फुटविकटपुटो वक्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः ।
६५
युष्माकं कवकाम्बुरुहपरिलसत्कर्णिकाकारशोभः
शश्वत्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥
क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती
भर्त्रे स्पर्धातिनिना मुहुरितरवधूशङ्कया शैलकन्या ।
युष्मांस्तौ शश्वदुच्चैरबहुलदशमशिर्वरीशातिशुभ्रा -
वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ-
न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम् ।
प्रोद्यत्प्रेम्णा यमार्द्रा पिबति गिरिसुता संपदः सातिरेका
लोका: शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
पीयूषाम्भः प्रवाहप्रसरपरि सत्न बिन्द्वावलीव ।
देयात्सा दन्तपङ्क्तिचिरमिह दनुदायाददौवारिकस्य
त्या दीप्तेन्दुकुन्दच्छविरमलतर प्रोन्नताम्रा मुदं वः ॥