2026-03-05 03:07:11 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६४
</ignore>
<ignore>शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
</ignore>
<verse>क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मन्ग्न माणिक्यशोभम् ।
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता-
दस्तोकापत्तिकृत्त्यै हुतवह कणिकामोक्षरूक्षं सदाक्षि ॥
</verse>
<verse>भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुम्ग्बिम्बयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्व
वं
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भभ्रुवोर्वः ॥ ४ ॥
</verse>
<verse>युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्च कोऽभूत्प्रपञ्चः ।
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोप्ग्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥
</verse>
<verse>चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम् ।
चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे
चण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥
</verse>
</page>
<ignore>६४
<ignore>शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
<verse>क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्म
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता-
दस्तोकापत्तिकृत्त्यै हुतवह
<verse>भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरु
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्
<verse>युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्च
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रो