2026-02-22 23:58:05 by ambuda-bot
This page has not been fully proofread.
६४
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
क्रुध्यगौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मन्न माणिक्यशोभम् ।
मूर्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता-
दस्तोकापत्तिकृत्त्यै हुतवह कणिकामोक्षरूक्षं सदाक्षि ॥
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुम्बिम्बयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्व
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भवोर्वः ॥ ४ ॥
युग्मे रुक्माब्जपि ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचितबृहत्कच कोऽभूत्प्रपञ्चः ।
ते ने पवित्रे त्रिदशवरघटामित्रजैत्रोप्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥
चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम् ।
चण्डाचिर्मण्डला सततनतजनध्वान्तखण्डातिशौण्डे
चण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥