This page has been fully proofread once and needs a second look.

<page>
<subtitle>
। श्रीः ॥
 
</subtitle>
<title>
शिवकेशादिपादान्त-

वर्णनस्तोत्रम् ॥
 
</title>
<verse>
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
 

त्
प्रांशुस्तम्बा:बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।

दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता

घोराघोर्वीरुहालीदहन शिखिशिखाः शर्म शार्वाः कपर्दाः ॥
 
</verse>
<verse>
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्य सोपानशङ्कां
 

शक्रारीणां पुराणां त्रयविजय कृतस्पष्ट रेखायमाणम् ।
 

अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
 

ज्जाह्व्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥
 
</verse>
</page>