2026-02-22 23:58:04 by ambuda-bot
This page has not been fully proofread.
। श्रीः ॥
शिवकेशादिपादान्त-
वर्णनस्तोत्रम् ॥
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
प्रांशुस्तम्बा: पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहन शिखिशिखाः शर्म शार्वाः कपर्दाः ॥
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्य सोपानशङ्कां
शक्रारीणां पुराणां त्रयविजय कृतस्पष्ट रेखायमाणम् ।
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
ज्जाह्वव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥