This page has been fully proofread once and needs a second look.

<page>
<ignore>
६२:
 

शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 
</ignore>
<verse>चे
तो जातप्रमोदं संपदि विदधती प्राणिनां वाणिनीनां

पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला ।

स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरी
 
रीं
मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥
 
</verse>
<verse>
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः

साध्येभ्यश्चारणेभ्यो मनुज पशुपतज्जातिकीटादिकेभ्यः ।

श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः

सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥
 
</verse>
<verse>
ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः

किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।

संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं

संप्राप्यायुः शतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
1
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवपादादिकेशान्त वर्णनस्तोत्रम्

संपूर्णम् ॥
 
</trailer>
</page>