2026-03-02 01:12:20 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
</ignore>
<ignore>६१
</ignore>
<verse>कान्त्या संफुल्ल मल्लीकुसुमधवलया व्याप्य विश्वं विराज-
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमान:नः पुरारे:
रेः
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥
</verse>
<verse>दिव्या कल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरश्विञ्चितानाम् ।
उद्वेल्लद्वाबाहुवल्लीविलसनसमये चामरान्दोलनीना-
मुद्भूतः कङ्कणालीवलय कलकलो वारयेदापदो नः ॥
</verse>
<verse>स्वर्गौकः सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्त संभावनानि ॥ ३७ ॥
</verse>
<verse>स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्म ञ्जुवीणा-
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥
</verse>
</page>
<ignore>शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
<ignore>६१
<verse>कान्त्या संफुल्ल
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमा
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥
<verse>दिव्या कल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैर
उद्वेल्लद्
मुद्भूतः कङ्कणालीवलय
<verse>स्वर्गौकः सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्त
<verse>स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्म
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥
</page>