2026-02-22 23:58:03 by ambuda-bot
This page has not been fully proofread.
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
६१
कान्त्या संफुल्ल मल्लीकुसुमधवलया व्याप्य विश्वं विराज-
वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमान: पुरारे:
वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥
दिव्या कल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरश्वितानाम् ।
उद्वेल्लद्वाहुवल्लीविलसनसमये चामरान्दोलनीना-
मुद्भूतः कङ्कणालीवलय कलकलो वारयेदापदो नः ॥
स्वर्गौकः सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्त संभावनानि ॥ ३७ ॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्म जुवीणा-
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥