This page has not been fully proofread.

.६.०
 
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 
यस्मिनन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।
तस्मिन्नुलीलचिल्लीनटवर तरुणीलास्यरङ्गायमाणे
 
कालारे: फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥
 
स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्ती
धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।
इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥
 
शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
 
तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
संघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥
 
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
दुत्सत्वं प्रयातः सुलभतरघृणास्यन्दिनञ्चन्द्रमौले: ।
तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
 
वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥