2026-03-02 01:03:00 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>५८</ignore>
<ignore>शिवपादादिकेशान्तवर्णनस्तोत्रम् ।</ignore>
<pverse>आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् <fix>।</fix>
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥</pverse>
<verse>वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः
कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-
र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४ ॥</verse>
<verse>संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥</verse>
<verse>हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥</verse>
</page>
<ignore>५८</ignore>
<ignore>शिवपादादिकेशान्तवर्णनस्तोत्रम् ।</ignore>
<
व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् <fix>।</fix>
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥</