This page has not been fully proofread.

५८
 
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 
आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम
 
दक्षारातेरुदृढप्रतिनवमणिमालावली भासमानं
 
वक्षों विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥
 
वामाङ्के विस्फुरन्त्या करतलविलसन्चारुरक्तोत्पलाया:
कान्ताया वामवक्षोरुहभर शिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृता निन्दुमौले-
बहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४ ॥
 
संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥
 
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री -
 
द्दयोतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमान:
 
सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥