2026-03-02 00:45:46 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
५७</ignore>
<verse>जानुद्वन्द्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ।
ऊरू गौरीकराम्भोरुहसरसस मामर्दनानन्दभाजौ
५७
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥
</verse>
<verse>आमुक्तानर्धरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-
दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥
</verse>
<verse>संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
व्यानद्ध:धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिध्यार्थसध्र्ययङ्मम दिशतु सदा संगतिं मङ्गलानाम् ॥
</verse>
<verse>नाभीचक्रालवालान्नवनवसुषमादोहद श्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौले:लेः सुखयतु सततं रोमवल्लीतमतल्ली ॥
</verse>
</page>
<ignore>शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
५७</ignore>
<verse>जानुद्वन्द्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ।
ऊरू गौरीकराम्भोरुहसरसस
५७
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥
<verse>आमुक्तानर्धरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-
दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥
<verse>संध्याकालानुरज्यद्दिनकरसरुचा
व्यानद्
उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिध्यार्थसध्र्य
<verse>नाभीचक्रालवालान्नवनवसुषमादोहद
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौ
</page>