This page has not been fully proofread.

शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 
जानुद्वन्द्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं
 
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ।
ऊरू गौरीकराम्भोरुहसरसस मामर्दनानन्दभाजौ
 
५७
 
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥
 
आमुक्तानर्धरत्नप्रकरकरपरिष्वक्तकल्याणकाची-
 
दाना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नतु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥
 
संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
व्यानद्ध: स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिध्यार्थसध्ययम दिशतु सदा संगतिं मङ्गलानाम् ॥
 
नाभीचक्रालवालान्नवनवसुषमादोहद श्रीपरीता-
 
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
 
सा मा सोमार्धमौले: सुखयतु सततं रोमवल्लीतली ॥