This page has been fully proofread once and needs a second look.

<page>
<ignore>
५६
 
</ignore>
<ignore>
शिवपादादिकेशान्तवर्णनस्तोत्रम्
 
</ignore>
<verse>
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो

हृय:यः पादैश्चतुर्भिः कनकमणिमयैरुच्च कैरुज्ज्वलात्मा ।

वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्री:
रीः
पीठ:ठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥
 
</verse>
<verse>
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ

पाथोजाभोगभाजी परिमृदुलतलोल्लासिपद्मादिरेखौ ।

पातां पादावुभौ तौ नमदमरकिरीटोल्लसञ्च्चारुहीर-

श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥
 
</verse>
<verse>
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-

र्
लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।

शंभो:भोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे

माङ्गल्यं नः समयंग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥
 
</verse>
<verse>
अङ्गे शृङ्गारयोःयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते

शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमप्ग्रे किमेतत् ।

शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
 

त्
संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८ ॥
 
</verse>
</page>